|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.147. अध्यायः 147
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन पाण्डवान्प्रति संक्षेपेण हास्तिननगरवृत्तान्तकथनम् ॥ 1 ॥ पाण्डवैः कृष्णंप्रति विस्तरेण भीष्मादिवचनकथनप्रार्थना ॥ 2 ॥ कृष्णेन शमविधायकभीष्मवचनानुवादः ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-147-0(36811)
वैशम्पायन उवाच। 5-147-0x(3816)
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः ।
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ 5-147-1(36812)
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः ।
स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह ॥ 5-147-2(36813)
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा।
पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति ॥ 5-147-3(36814)
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः।
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥ 5-147-4(36815)
युधिष्ठिर उवाच। 5-147-5x(3817)
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥ 5-147-5(36816)
वासुदेव उवाच। 5-147-6x(3818)
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः । 5-147-6(36817)
युधिष्ठिर उवाच। 5-147-7aतस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः।
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ॥ 5-147-7x(3819)
आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्।
पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् ॥ 5-147-8(36818)
पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः।
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ॥ 5-147-9(36819)
किंच सर्वे नृपतयः सभायां ये समासते।
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥ 5-147-10(36820)
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः।
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि ॥ 5-147-11(36821)
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ।
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ॥ 5-147-12(36822)
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो।
यथा च नाभिपद्येत कालस्तात तथा कुरु।
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥ 5-147-13(36823)
वासुदेव उवाच। 5-147-14x(3820)
श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः।
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥ 5-147-14(36824)
मया विश्राविते वाक्ये जहास धृतराष्ट्रजः ।
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ 5-147-15(36825)
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते।
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥ 5-147-16(36826)
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः।
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥ 5-147-17(36827)
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः।
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥ 5-147-18(36828)
न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः।
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥ 5-147-19(36829)
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च।
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव।
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥ 5-147-20(36830)
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः ।
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिव ॥ 5-147-21(36831)
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम्।
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥ 5-147-22(36832)
तस्याहं सदृशान्दारान्राजेन्द्र समुपाहरम्।
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ॥ 5-147-23(36833)
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्।
स हि रामभयादेभिर्नागरैर्विप्रवासितः ॥ 5-147-24(36834)
दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत।
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥ 5-147-25(36835)
प्रजा ऊचुः । 5-147-26x(3821)
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः।
ईतीः प्रणुद भद्रं शन्तनोः कुलवर्धन ॥ 5-147-26(36836)
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥ 5-147-27(36837)
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय।
त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु ॥ 5-147-28(36838)
भीष्म उवाच। 5-147-29x(3822)
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।
प्रतिज्ञां रक्षमाणस्य तद्वृत्तं स्मरतस्तथा ।
ततः पौरा महाराज माता काली च मे शुभा ॥ 5-147-29(36839)
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः।
मामूचुर्भृशसंतप्ता भव राजेति सन्ततम् ॥ 5-147-30(36840)
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति।
स त्वमस्मद्धितार्थं वै राजा भव महामते ॥ 5-147-31(36841)
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगोरवात् ॥ 5-147-32(36842)
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ।
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ॥ 5-147-33(36843)
ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम्।
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ॥ 5-147-34(36844)
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ।
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम् ॥ 5-147-35(36845)
अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले ।
एवं तामनुनीयाहं मातरं जनसन्निधौ ॥ 5-147-36(36846)
अयाचं भ्रतृदारेषु तदा व्यासं महामुनिम् ।
सह मात्रा महाराज प्रसाद्य तमृषिं महामुनिम् । 5-147-37(36847)
अपत्यार्थं महाराज प्रसादं कृतवांश्च सः ।
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥ 5-147-38(36848)
अन्धः करणहीनत्वान्न वै राजा पिता तव।
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥ 5-147-39(36849)
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥ 5-147-40(36850)
मयि जीवति राज्यं कः संप्रशासेत्पुमानिह।
मावमंस्या वचो मह्यं शममिच्छामि वः सदा ॥ 5-147-41(36851)
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च षार्थिव।
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥ 5-147-42(36852)
श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम।
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ॥ ॥ 5-147-43(36853)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-147-13 नाभिपद्येत नातिक्रामेत ॥ 5-147-19 कालीं सत्यवतीम् ॥ 5-147-20 प्रतीतः तुष्टः ॥ 5-147-24 विप्रवासितः दूरेस्थापितः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|